वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भी꣢ष꣣त꣢꣫स्तदा भ꣣रे꣢न्द्र꣣ ज्या꣢यः꣣ क꣡नी꣢यसः । पु꣣रूव꣢सु꣣र्हि꣡ म꣢घवन्ब꣣भू꣡वि꣢थ꣣ भ꣡रे꣢भरे च꣣ ह꣡व्यः꣢ ॥३०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभीषतस्तदा भरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥३०९॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । स꣣तः꣢ । तत् । आ । भ꣣र । इ꣡न्द्र꣢꣯ । ज्या꣡यः꣢꣯ । क꣡नी꣢꣯यसः । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । हि । म꣣घवन् । बभू꣡वि꣢थ । भ꣡रे꣢꣯भरे । भ꣡रे꣢꣯ । भ꣣रे । च । ह꣡व्यः꣢꣯ ॥३०९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 309 | (कौथोम) 4 » 1 » 2 » 7 | (रानायाणीय) 3 » 8 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम द्वारा परमेश्वर, गुरु, राजा आदि से ऐश्वर्य की याचना की गयी है।

पदार्थान्वयभाषाः -

प्रथम—उपास्य-उपासक के पक्ष में। हे (इन्द्र) परमेश्वर ! (कनीयसः सतः) आपकी अपेक्षा अल्प शक्ति और अल्प धन आदिवाले मुझे (तत्) वह आपके पास विद्यमान (ज्यायः) अत्यधिक प्रशस्त तथा अधिक महान् आध्यात्मिक एवं भौतिक धन और बल (अभि आ भर) प्राप्त कराओ। हे (मघवन्) प्रशस्त ऐश्वर्यवाले परमात्मन् ! आप (पुरूवसुः) बहुत धनी (बभूविथ) हो, (भरे-भरे च) और प्रत्येक अन्तर्द्वन्द्व में, प्रत्येक देवासुर-संग्राम में, प्रत्येक संकट में विजयप्रदानार्थ (हव्यः) पुकारे जाने योग्य हो ॥ द्वितीय—गुरु-शिष्य के पक्ष में। हे (इन्द्र) दोषविदारक तथा उपदेशप्रदायक आचार्यवर ! (कनीयसः सतः) आयु और विद्या में आपसे अत्यल्प मुझ अपने शिष्य को आप (तत्) उस अपने पास विद्यमान (ज्यायः) प्रशंसनीय तथा विशाल विद्या और व्रतपालन के भण्डार को (अभि आ भर) प्रदान करो, (हि) क्योंकि (मघवन्) हे ज्ञान-धन के धनी ! आप (पुरूवसुः) अनेक विद्याओं में विशारद (बभूविथ) हो, (भरे-भरे च) और शिष्यों का प्रत्येक भार उठाने के निमित्त (हव्यः) ग्रहण करने योग्य हो ॥ तृतीय—राजा-प्रजा के पक्ष में। हे (इन्द्र) शत्रुविदारक सुखादिप्रदायक राजन् ! (कनीयसः सतः) धन, शूरवीरता आदि में आपकी अपेक्षा बहुत कम मुझ प्रजाजन को (तत्) वह स्पृहणीय, प्रसिद्ध (ज्यायः) प्रशस्यतर तथा विशालतर, धन-धान्य, शस्त्रास्त्र, कला-कौशल, सुराज्य आदि ऐश्वर्य (अभि आ भर) प्रदान कीजिए। हे (मघवन्) ऐश्वर्यशालिन् ! आप (पुरूवसुः) बहुत-सी प्रजाओं को बसानेवाले (बभूविथ) हो, (भरे-भरे च) और राष्ट्र के अन्दर तथा बाहर जो शत्रु हैं, उनके साथ होनेवाले प्रत्येक संग्राम में (हव्यः) पुकारे जाने योग्य हो ॥७॥ नन्हे पात्र में बड़ी वस्तु नहीं समा सकती, अतः ‘ज्यायः कनीयसः’ में वैषम्य प्रतीत होने के कारण विषमालङ्कार व्यङ्ग्य है ॥७॥

भावार्थभाषाः -

परमात्मा के पास अत्यन्त प्रशस्त और अत्यन्त विशाल भौतिक तथा आध्यात्मिक धन, गुरु के पास प्रचुर विद्याधन तथा सच्चारित्र्य का धन और राजा के पास प्रभूत, चाँदी, सोने, धान्य, शस्त्रास्त्र, कलाकौशल, चिकित्सा-साधन आदि का धन है। वे अपने-अपने धन से हमें धनी करें ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमेश्वर-गुरु-नृपादीनैश्वर्यं याचते।

पदार्थान्वयभाषाः -

प्रथमः—उपास्योपासकपरः। हे (इन्द्र) परमेश्वर ! (कनीयसः सतः) त्वदपेक्षयाऽल्पशक्तेरल्पधनादिकस्य च सतो मम (तत्) भवदधिकारे विद्यमानम् (ज्यायः२) प्रशस्यतरं विपुलतरं च आध्यात्मिकं भौतिकं च धनं बलं वा। प्रशस्यशब्दाद् वृद्धशब्दाच्च ईयसुनि क्रमेण ‘ज्य च’, ‘वृद्धस्य च’ अ० ५।३।६१, ६२ इति ज्यादेशे रूपम्। (अभि आ भर) मदभिमुखम् आहर, (हि) यस्मात् हे (मघवन्) प्रशस्तैश्वर्यशालिन् ! त्वम् (पुरूवसुः) बहुधनः (बभूविथ) विद्यसे, (भरे भरे च) अन्तर्द्वन्द्वे-अन्तर्द्वन्द्वे, संग्रामे-संग्रामे, संकटे-संकटे च, बलप्रदानार्थम्। ‘भर इति संग्रामनाम। भरतेर्वा हरतेर्वा’। निरु० ४।२४। (हव्यः) आह्वातव्यः बभूविथ। ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे रूपम्। संहितायाम् ‘अभि’ इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। ‘सतः’ इति सकारस्य ‘पूर्वपदात्’ अ० ८।३।१०६ इत्यनेन मूर्धन्यादेशः ॥ अथ द्वितीयः—आचार्यशिष्यपरः। हे (इन्द्र) दोषविदारक सद्गुणसदाचरणोपदेशप्रदायक आचार्यवर ! (कनीयसः सतः) आयुषि ज्ञानेन च अल्पीयसः सतो मम भवदीयशिष्यस्य (तत्) भवदन्तिके विद्यमानम् (ज्यायः) प्रशस्यतरं विपुलतरं च विद्याधनं व्रतपालनधनं च (अभि आ भर) मदभिमुखं प्रापय। (हि) यस्मात्, हे (मघवन्) सच्चरित्रधनाधिपते ! त्वम् (पुरूवसुः) पुरूणि बहूनि वसूनि विद्याधनानि यस्य तादृशः विविधविद्याविशारदः (बभूविथ) विद्यसे, (भरे भरे च) शिष्याणां प्रत्येकभारवहननिमित्ताय च (हव्यः) आदातुं योग्यः बभूविथ। हु दानादनयोः आदाने चेत्येके ॥ अथ तृतीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सुखादिप्रदायक राजन् ! (कनीयसः सतः) धनशौर्यादौ त्वदपेक्षया अल्पीयसः सतो मम प्रजाजनस्य (तत्) स्पृहणीयं प्रसिद्धम् (ज्यायः) प्रशस्यतरं विपुलतरं च धनधान्य-शस्त्रास्त्र-कला-कौशल-सुराज्यादिकमैश्वर्यम् (अभि आ भर) मां प्रजाजनं प्रति प्रापय, (हि) यस्मात् हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (पुरूवसुः) बह्वीनां प्रजानां वासयिता (बभूविथ) विद्यसे, (भरे भरे च) राष्ट्राभ्यन्तरे बहिश्च ये शत्रवः सन्ति तैः सह संग्रामे-संग्रामे च (हव्यः) आह्वातव्यः बभूविथ •॥७॥ अत्र कनीयसि पात्रे ज्यायो वस्तु कथं समेयादिति वैषम्यप्रतीतेर्विषमालङ्कारो व्यङ्ग्यः ॥७॥

भावार्थभाषाः -

परमात्मनः पार्श्वे प्रशस्तप्रशस्तं विपुलविपुलं भौतिकमाध्यात्मिकं च धनम्, गुरोः पार्श्वे प्रभूतं विद्याधनं सच्चारित्र्यधनं च, नृपस्य च पार्श्वे प्रभूतं रजतसुवर्णधान्यशस्त्रास्त्रकलाकौशलचिकित्सासाधनादिरूपं धनं विद्यते। ते स्वस्वधनैरस्मान् धनिकान् कुर्वन्तु ॥७॥३

टिप्पणी: १. ऋ० ७।३२।२४, ‘मघवन् बभूविथ’ इत्यत्र ‘मघवन्त्सनादसि’ इति पाठः। २. ज्यायः प्रशस्यतरं धनम्। सम्बुद्ध्यन्तं वा हे ज्यायः इति। आमन्त्रितं पूर्वमविद्यमानवत् (अ० ८।१।७२) इति इन्द्रपदस्य पादादौ विद्यमानस्य विद्यमानत्वाभावात् ज्यायः इत्यस्य सर्वानुदात्तत्वाभावः, नकारस्य रुत्वं व्यत्ययात्—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरः कीदृशोऽस्तीति विषये व्याख्यातः।